|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.94. अध्यायः 094
Mahabharata - Sabha Parva - Chapter Topics
कर्णप्रलपितम्॥ 1॥ क्रुद्धं भीमं निवार्य युधिष्ठिरस्य धृतराष्ट्रसमीपगमनम्॥ 2॥
Mahabharata - Sabha Parva - Chapter Text
कर्ण उवाच॥
या नः श्रुता मनुष्येषु स्त्रियो रूपेण संमताः।
तासामेतादृशं कर्म न कस्याश्चन शुश्रुम॥ 2-94-1(15152)
क्रोधाविष्टेषु पार्थेषु धार्तराष्ट्रेषु चाप्यति।
द्रौपदी पाण्डुपुत्राणां कृष्णा शान्तिरिहाभवत्॥ 2-94-2(15153)
अप्लवेऽम्भसि मग्नानामप्रतिष्ठे निमज्जताम्।
पाञ्चाली पाण्डुपुत्राणां नौरेषां पारगाऽभवत्॥ 2-94-3(15154)
वैशम्पायन उवाच॥ 2-94-4x(1685)
तद्वै श्रुत्वा भीमसेनः कुरुमध्येऽत्यमर्षणः।
स्त्री गतिः पाण्डुपुत्राणामित्युवाच सुदुर्मनाः॥ 2-94-4(15155)
भीम उवाच॥ 2-94-5x(1686)
त्रीणि ज्योतींषि पुरुष इति वै देवलोऽब्रवीत्।
अपत्यं कर्म विद्या च यतः सृष्टाः प्रजास्ततः॥ 2-94-5(15156)
अमेध्ये वै गतप्रामे शून्ये ज्ञातिभिरुज्झिते।
देहे त्रितयमेवैतत्पुरुषस्योपयुज्यते॥ 2-94-6(15157)
तन्नो ज्योतिरभिहतं दाराणामभिमर्शनात्।
धनञ्जय कथं स्वित्स्यादपत्यमभिमृष्टजम्॥ 2-94-7(15158)
अर्जुन उवाच॥ 2-94-8x(1687)
न चैवोक्ता न चानुक्ता हीनतः परुषा गिरः।
भारत प्रतिजल्पन्ति सदा तूत्तमपूरुषाः॥ 2-94-8(15159)
स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि।
सन्तः प्रतिविजानन्तो लब्धसम्भावनाः स्वयम्॥ 2-94-9(15160)
भीम उवाच॥ 2-94-10x(1688)
इहैवैतानहं सर्वान्हन्मि शत्रून्समागतान्।
अथ निष्क्रम्य राजेन्द्र समूलान्हन्मि भारत॥ 2-94-10(15161)
किं नो विवदितेनेह किमुक्तेन च भारत।
अद्यैवैतान्निहन्मीह प्रशाधि पृथिवीमिमाम्॥ 2-94-11(15162)
इत्युक्त्वा भीमसेनस्तु कनिष्ठैर्भ्रातृभिः सह।
मृगमध्ये यथा सिंहो मुहुर्मुहुरुदैक्षत॥ 2-94-12(15163)
सान्त्व्यमानो वीक्षमाणः पार्थेनाक्लिष्टकर्मणा।
खिद्यत्येव महाबाहुरन्तर्दाहेन वीर्यवान्॥ 2-94-13(15164)
क्रुद्धस्य तस्य स्रोतोभ्यः कर्णादिभ्यो नराधिप।
सधूमः सस्फुलिङ्गार्चिः पावकः समजायत॥ 2-94-14(15165)
भ्रुकुटीकृतदुष्प्रेक्ष्यमभवत्तस्य तन्मुखम्।
युगान्तकाले सम्प्राप्ते कृतान्तस्येव रूपिणः॥ 2-94-15(15166)
युधिष्ठिरस्तमावार्य बाहुना बाहुशालिनम्।
मैवमित्यब्रवीच्चैनं जोषमास्वेति भारत॥ 2-94-16(15167)
निवार्य च महाबाहुं कोपसंरक्तलोचनम्।
पितरं समुपातिष्ठद्धृतराष्ट्रं कृताञ्जलिः॥ ॥ 2-94-17(15168)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि चतुर्नवतितमोऽध्यायः॥94 ॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-94-16 जोषं तूष्णीम्॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|